गणेश महिम्ना स्तोत्रम् Ganesh Mahima Stotram अनिर्वाच्यं रूपं स्तवन निकरो यत्र गलितः तथा वक्ष्ये स्तोत्रं प्रथम पुरुषस्यात्र महतः । यतो जातं विश्वस्थितिमपि सदा यत्र विलयः सकीदृग्गीर्वाणः सुनिगम नुतः श्रीगणपतिः ॥ 1 ॥ गकारो हेरंबः सगुण इति पुं निर्गुणमयो द्विधाप्येकोजातः प्रकृति पुरुषो ब्रह्म हि गणः । स चेशश्चोत्पत्ति स्थिति लय करोयं प्रमथको यतोभूतं भव्यं भवति पतिरीशो गणपतिः ॥ 2 ॥ गकारः कंठोर्ध्वं गजमुखसमो मर्त्यसदृशो णकारः कंठाधो जठर सदृशाकार इति च । अधोभावः कट्यां चरण इति हीशोस्य च तमः विभातीत्थं नाम त्रिभुवन समं भू र्भुव स्सुवः ॥ 3 ॥ गणाध्यक्षो ज्येष्ठः कपिल अपरो मंगलनिधिः दयालुर्हेरंबो वरद इति चिंतामणि रजः । वरानीशो ढुंढिर्गजवदन नामा शिवसुतो मयूरेशो गौरीतनय इति नामानि पठति ॥ 4 ॥ महेशोयं विष्णुः स कवि रविरिंदुः कमलजः क्षिति स्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः । कुजस्तारः शुक्रो पुरुरुडु बुधोगुच्च धनदो यमः पाशी काव्यः शनिरखिल रूपो गणपतिः ॥5 ॥ मुखं वह्निः पादौ हरिरसि विधात प्रजननं रविर्नेत्रे चंद्रो हृदय मपि कामोस्य मदन । करौ शुक्रः कट्यामवनिरुदरं भाति दशनं गणेशस्यासन् ...
Gayatri Stotra is Spiritual Blogger for All mantra, Stotram, Sadhna information,Kundali,and Many More stotra at the end of puja, chanting mantra, havan etc. is considered auspicious. The Gods and Gurus associated with the recitation of the Stotra become pleased quickly.