Skip to main content

Posts

Showing posts with the label Gayatri stotra

श्री गायत्री स्तोत्र Shri Gayatri Stotra

 नमस्ते देवि गायत्रि सावित्रि त्रिपदेऽक्षरे । अजरे अमरे मातस्त्राहि मां भवसागरात् ॥ १॥ नमस्ते सूर्यसङ्काशे सूर्यसावित्रि कोमले । ब्रह्मविद्ये महाविद्ये वेदमातर्नमोस्तु ते ॥ २॥ अनन्तकोटिब्रह्माण्डव्यापिनि ब्रह्मचारिणि । नित्यानन्दे महामाये परेशानि नमोस्तु ते ॥ ३॥ त्वं ब्रह्मा त्वं हरिः साक्षाद्रुद्रस्त्वमिन्द्रदेवता । मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः ॥ ४॥ पूषार्यमा मरुत्वांश्च ऋषयोऽपि मुनीश्वराः । पितरो नागयक्षाश्च गन्धर्वाप्सरसां गणाः ॥ ५॥ रक्षोभूतपिशाचाश्च त्वमेव परमेश्वरि । ऋग्यजुस्सामवेदाश्च अथर्वाङ्गिरसानि च ॥ ६॥ त्वमेव पञ्चभूतानि तत्त्वानि जगदीश्वरि । ब्राह्मी सरस्वती सन्ध्या तुरीया त्वं महेश्वरि ॥ ७॥ त्वमेव सर्वशास्त्राणि त्वमेव सर्वसंहिताः । पुराणानि च मन्त्राणि महागम मतानि च ॥ ८॥ तत्सद्ब्रह्मस्वरूपा त्वं कञ्चित्सदसदात्मिका । परात्परेशि गायत्रि नमस्ते मातरम्बिके ॥ ९॥ चन्द्रे कलात्मिके नित्ये कालरात्रि स्वधे स्वरे । स्वाहाकारेऽग्निवक्त्रे त्वां नमामि जगदीश्वरि ॥ १०॥ नमो नमस्ते गायत्रि सावित्रि त्वां नमाम्यहम् । सरस्वति नमस्तुभ्यं तुरीये ब्रह्मरूपिणि ॥ ११॥ अपराधसहस...